|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.280. अध्यायः 280
Mahabharata - Vana Parva - Chapter Topics
सीतामादाय गच्छता रावणेन निरोधकत्यजटायुषो युद्धे हननपूर्वकं लङ्काप्रवेशः ॥ 1 ॥ मृगहननपूर्वकं प्रतिनिवृत्तेन रामेण मध्येमार्गं संगतस्य लक्ष्मणस्य विजने सीतात्यजनेन हेतुना गर्हणपूर्वकं स्वावासगमनम् ॥ 2 ॥ सीतान्वेषिणा सलक्ष्मणेन रामेण मार्गे स्वग्राहिणः कबन्धस्य वधः ॥ 3 ॥ कबन्धदेहान्निर्गतेन गन्धर्वेण रामंप्रति पम्पातटे सुग्रीवंप्रति गमनचोदना ॥ 4 ॥
Mahabharata - Vana Parva - Chapter Text
गार्कण्डेय उवाच। 3-280-0x(2705)(26654)
सखा दशरथस्यासीज्जटायुररुणात्मजः।
गृध्रराजो महावीरः संपातिर्यस् सोदरः ॥ 3-280-1(26655)
स ददर्श तदा सीतां रावणाङ्कगतां स्नुषाम्।
सक्रोधोऽभ्यद्रवत्पक्षी रावणं राक्षसेश्वरम् ॥ 3-280-2(26656)
अथैनमब्रवीद्गृध्रो मुञ्चमुञ्चेति मैथिलीम्।
ध्रियमाणे मयि कथं हरिष्यसि निशाचर ॥ 3-280-3(26657)
न हिमे मोक्ष्यसे जीवन्यदि नोत्सृजसे वधूम्।
उक्त्वैवं राक्षसेन्द्रं तं चकर्त नखरैर्भृशम् ॥ 3-280-4(26658)
पक्षतुण्डप्रहारैश्च शतशो जर्जरीकृतम्।
चक्षार रुधिरं भूरि गिरिः प्रस्रवणैरिव ॥ 3-280-5(26659)
स वध्यमानो गृध्रेण रामप्रियहितैषिणा।
खङ्गमादाय चिच्छेद भुजौ तस् पतत्रिणः ॥ 3-280-6(26660)
निहत्य गृध्रराजं सभिन्नाभ्रशिखरोपमम्।
ऊर्ध्वमाचक्रमे सीतां गृहीत्वाऽङ्केन राक्षसः ॥ 3-280-7(26661)
यत्रयत्रतु वैदेही पश्यत्याश्रममण्डलम्।
सरोवा सरितो वाऽपि तत्र मुञ्चति भूषणम् ॥ 3-280-8(26662)
सा ददर्श गिरिप्रस्थे पञ्च वानरपुङ्गवान्।
तत्र वासो महद्दिव्यमुत्ससर्ज मनस्विनी ॥ 3-280-9(26663)
तत्तेषां वानरेन्द्राणां पपात पवनोद्धतम्।
मध्ये सुपीतं पञ्चानां विद्युन्मेघान्तरे यथा ॥ 3-280-10(26664)
अचिरेणातिचक्राम खेचरः खे चरन्निव।
ददर्शाथ पुरीं रम्यां बहुद्वारां मनोरमाम् ॥ 3-280-11(26665)
प्राकारवप्रसंबाधां निर्मितां विश्वकर्मणा।
प्रविवेशपुरीं लङ्कां ससीतो राक्षसेश्वरः ॥ 3-280-12(26666)
एवं हृतायां वैदेह्यां रामो हत्वा महामृगम्।
निवृत्तो ददृशे दूराद्भ्रातरं लक्ष्मणं तदा ॥ 3-280-13(26667)
कथमुत्सृज्य वैदेहीं वने राक्षससेविते।
इति तं भ्रातरं दृष्ट्वा प्राप्तोऽसीति व्यगर्हयत् ॥ 3-280-14(26668)
मृगरूपधरेणाथ रक्षसासोपकर्षणम्।
भ्रातुरागमनं चैवचिन्तयन्पर्यतप्यत ॥ 3-280-15(26669)
गर्हयन्नेव रामस्तु त्वरितस्तं समासदत्।
अपि जीवति वैदेहीमिति पश्यामि लक्ष्मण ॥ 3-280-16(26670)
तस् तत्सर्वमाचख्यौ सीताया लक्ष्मणो वचः।
यदुक्तवत्यसदृशं वैदेही पश्चिमं वचः ॥ 3-280-17(26671)
दह्यमानेन तु हृदा रामोऽभ्यपतदाश्रमम्।
स ददर्श रतदा गृध्रं निहतं पर्वतोपमम् ॥ 3-280-18(26672)
राक्षसं शङ्कमानस्तं विकृष्य बलवद्धनुः।
अभ्यधावत काकुत्स्थस्ततस्तं सहलक्ष्मणः ॥ 3-280-19(26673)
स तावुवाच तेजस्वी सहितौ रामलक्ष्मणौ।
गृध्रराजेस्मि भद्रंवां सखा दशरथस् वै ॥ 3-280-20(26674)
तस्य तद्वचनं श्रुत्वा संगृह्य धनुषी शुभे।
कोयं पितरमस्माकं नाम्नाऽऽहेत्यूचतुश्च तौ ॥ 3-280-21(26675)
ततो ददृशतुस्तौ तं छिननपक्षद्वयं खगम्।
तयोः शशंस गृध्रस्तु सीतार्थे रावणाद्वधम् ॥ 3-280-22(26676)
अपृच्छद्राघवो गृध्रं रावणः कां दिशं गतः।
तस् गृध्रः शिरःकम्पैराचचक्षे ममार च ॥ 3-280-23(26677)
दक्षिणामिति काकुत्स्थो विदित्वाऽस्य तदिङ्गितम्।
संस्कारं लम्भयामास सखायं पूजयन्पितुः ॥ 3-280-24(26678)
ततो दृष्ट्वाऽऽश्रमपदं व्यपविद्धबृसीकटम्।
विध्वस्तकलशं शून्यं गोमायुशतसंकुलम् ॥ 3-280-25(26679)
दुःखशोकसमाविष्टौ वैदेहीहरणार्दितौ।
जग्मतुर्दण्डकारण्यं दक्षिणेन परंतपौ ॥ 3-280-26(26680)
वने महति तस्मिंस्तु रामः सौमित्रिणा सह।
ददर्श मृगयूथनि द्रवमाणानि सर्वशः ॥ 3-280-27(26681)
शब्दं च घोरं सत्वानां दावाग्नरिववर्धतः।
अपश्येतां मुहूर्ताच्च कबन्धं घोरदर्शनम् ॥ 3-280-28(26682)
मेघपर्वतसंकाशं सालस्कन्धं महाभूजम्।
उरोगतविशालाक्षं महोदरमहामुखम् ॥ 3-280-29(26683)
यदृच्छयाथ तद्रक्षः करे जग्राह लक्ष्मणम्।
विषादमगमत्सद्यः सौमित्रिरथ भारत ॥ 3-280-30(26684)
स राममभिसंप्रेक्ष्य कृष्यते येन तन्मुखम्।
विषण्णश्चाब्रवीद्रामं पश्यावस्थामिमां मम ॥ 3-280-31(26685)
हरणं चैववैदेह्या मम चायमुपप्लवः।
राज्यभ्रंशश्च भवतस्तातस्य मरणं तथा ॥ 3-280-32(26686)
नाहं त्वां मह वैदेह्या समेतं कोसलागतम्।
द्रक्ष्यामि प्रथिते राज्येपितृपैतामहे स्थितम् ॥ 3-280-33(26687)
द्रक्ष्यन्त्यार्यस्य धन्या ये कुशलाजशमीदलैः।
अभिषिक्तस् वदनं सोमं शान्तघनं यथा ॥ 3-280-34(26688)
एवं बहुविधं धीमान्विललाप स लक्ष्मणः।
तमुवाचाथकाकुत्स्थः संभ्रमेष्वप्यसंभ्रमः ॥ 3-280-35(26689)
मा विषीद नरव्याघ्र नैष कश्चिन्मयि स्थिते।
`शक्तो धर्षयितुं वीर सुमित्रानन्दवर्धन'।
छिन्ध्यस्य दक्षिणं बाहुं छिन्नः सव्यो मया भुजः ॥ 3-280-36(26690)
इत्येवं वदता तस् भुजो रामेण पातितः।
खङ्गेन भृशतीक्ष्णेन निकृत्तस्तिलकाण्डवत् ॥ 3-280-37(26691)
ततोऽस्य दक्षिणं बाहुं स्वङ्गेनाजघ्निवान्बली।
सौमित्रिरपि संप्रेक्ष्यभ्रातरं राघवं स्थितम् ॥ 3-280-38(26692)
पुनर्जघान पार्श्वे वै तद्रक्षो लक्ष्मणो भृशम्।
गतासुरपतद्भूमौ कबन्धः सुमहांस्ततः ॥ 3-280-39(26693)
तस्य देहाद्विनिःसृत्य पुरुषो दिव्यदर्शनः।
ददृशे दिवमास्थाय दिवि सूर्य इव ज्वलन् ॥ 3-280-40(26694)
पप्रच्छ रामस्तं वाग्मी कस्त्वं प्रब्रूहि पृच्छतः।
कामया किमिदं चित्रमाश्चर्यं प्रतिभाति मे ॥ 3-280-41(26695)
तस्याचचक्षेगन्धर्वोविश्वावसुरहं नृप।
प्राप्तो ब्राह्मणशपेन योनिं राक्षससेविताम् ॥ 3-280-42(26696)
रावणेन हृतासीता लङ्कायां संनिवेशिता।
सुग्रीवमभिगच्छस्वस ते साह्यं करिष्यति ॥ 3-280-43(26697)
एषा पम्पा शिवजला हंसकारण्डवायुता।
ऋश्यमूकस्य शैलस्य संनिकर्षे तटाकिनी ॥ 3-280-44(26698)
वसते तत्रसुग्रीवश्चतुर्भिः सचिवैः सह।
भ्राता बानरराजस् वालिनो हेममालिनः ॥ 3-280-45(26699)
तेन त्वं सहसंगम्य दुःखमूलं निवेदय।
समानशीलो भवतः साहाय्यं स करिष्यति ॥ 3-280-46(26700)
एतावच्छक्यमस्माभिर्वक्तुं द्रष्टासि जानकीम्।
ध्रुवं वानरराजस् विदितो रावणालयः ॥ 3-280-47(26701)
इत्युक्त्वाऽन्तर्हितो दिव्यः पुरुषः स महाप्रभः।
विस्मयं जग्मतुश्चोभौ प्रवीरौ रामलक्ष्मणौ ॥ 3-280-48(26702)
इति श्रीमन्महाभारते अरण्यपर्वणि रामोपाख्यानपर्वणि अशीत्यधिकद्विशततमोऽध्यायः ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-280-3 ध्रियमाणे जीवति ॥ 3-280-4 नखरैः नखैः ॥ 3-280-5 चक्षार सुस्राव ॥ 3-280-7 अङ्केन उत्सङ्गेन ॥ 3-280-9 गिरिप्रस्थे पर्वतशिखरे ॥ 3-280-12 प्राकारः परिधिभित्तिः वप्रस्तद्बाह्यं वेणुमयं दुर्गं ताभ्यां संबाधा दुर्गमा ॥ 3-280-14 कथं प्राप्तोसीति संबन्धः ॥ 3-280-20 वां युवयोः ॥ 3-280-21 आहव्रृते ॥ 3-280-29 उरसि नेत्रे उदरे मुखं च यस्य। कबन्धः शोर्षहीनः पुमान् ॥ 3-280-31 येन यतस्तन्मुखं ततः कृष्यते ॥ 3-280-41 कामया इच्छया ॥ 3-280-44 पम्पा नामतः। तटाकिनी सरसी ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|