(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

महाभारत का अरयण्क पर्व – Mahabharat Aranyak Parv in Hindi


॥ श्रीः ॥
3.280. अध्यायः 280
Mahabharata - Vana Parva - Chapter Topics
सीतामादाय गच्छता रावणेन निरोधकत्यजटायुषो युद्धे हननपूर्वकं लङ्काप्रवेशः ॥ 1 ॥ मृगहननपूर्वकं प्रतिनिवृत्तेन रामेण मध्येमार्गं संगतस्य लक्ष्मणस्य विजने सीतात्यजनेन हेतुना गर्हणपूर्वकं स्वावासगमनम् ॥ 2 ॥ सीतान्वेषिणा सलक्ष्मणेन रामेण मार्गे स्वग्राहिणः कबन्धस्य वधः ॥ 3 ॥ कबन्धदेहान्निर्गतेन गन्धर्वेण रामंप्रति पम्पातटे सुग्रीवंप्रति गमनचोदना ॥ 4 ॥
Mahabharata - Vana Parva - Chapter Text

गार्कण्डेय उवाच। 3-280-0x(2705)(26654)
सखा दशरथस्यासीज्जटायुररुणात्मजः।
गृध्रराजो महावीरः संपातिर्यस् सोदरः ॥ 3-280-1(26655)
स ददर्श तदा सीतां रावणाङ्कगतां स्नुषाम्।
सक्रोधोऽभ्यद्रवत्पक्षी रावणं राक्षसेश्वरम् ॥ 3-280-2(26656)
अथैनमब्रवीद्गृध्रो मुञ्चमुञ्चेति मैथिलीम्।
ध्रियमाणे मयि कथं हरिष्यसि निशाचर ॥ 3-280-3(26657)
न हिमे मोक्ष्यसे जीवन्यदि नोत्सृजसे वधूम्।
उक्त्वैवं राक्षसेन्द्रं तं चकर्त नखरैर्भृशम् ॥ 3-280-4(26658)
पक्षतुण्डप्रहारैश्च शतशो जर्जरीकृतम्।
चक्षार रुधिरं भूरि गिरिः प्रस्रवणैरिव ॥ 3-280-5(26659)
स वध्यमानो गृध्रेण रामप्रियहितैषिणा।
खङ्गमादाय चिच्छेद भुजौ तस् पतत्रिणः ॥ 3-280-6(26660)
निहत्य गृध्रराजं सभिन्नाभ्रशिखरोपमम्।
ऊर्ध्वमाचक्रमे सीतां गृहीत्वाऽङ्केन राक्षसः ॥ 3-280-7(26661)
यत्रयत्रतु वैदेही पश्यत्याश्रममण्डलम्।
सरोवा सरितो वाऽपि तत्र मुञ्चति भूषणम् ॥ 3-280-8(26662)
सा ददर्श गिरिप्रस्थे पञ्च वानरपुङ्गवान्।
तत्र वासो महद्दिव्यमुत्ससर्ज मनस्विनी ॥ 3-280-9(26663)
तत्तेषां वानरेन्द्राणां पपात पवनोद्धतम्।
मध्ये सुपीतं पञ्चानां विद्युन्मेघान्तरे यथा ॥ 3-280-10(26664)
अचिरेणातिचक्राम खेचरः खे चरन्निव।
ददर्शाथ पुरीं रम्यां बहुद्वारां मनोरमाम् ॥ 3-280-11(26665)
प्राकारवप्रसंबाधां निर्मितां विश्वकर्मणा।
प्रविवेशपुरीं लङ्कां ससीतो राक्षसेश्वरः ॥ 3-280-12(26666)
एवं हृतायां वैदेह्यां रामो हत्वा महामृगम्।
निवृत्तो ददृशे दूराद्भ्रातरं लक्ष्मणं तदा ॥ 3-280-13(26667)
कथमुत्सृज्य वैदेहीं वने राक्षससेविते।
इति तं भ्रातरं दृष्ट्वा प्राप्तोऽसीति व्यगर्हयत् ॥ 3-280-14(26668)
मृगरूपधरेणाथ रक्षसासोपकर्षणम्।
भ्रातुरागमनं चैवचिन्तयन्पर्यतप्यत ॥ 3-280-15(26669)
गर्हयन्नेव रामस्तु त्वरितस्तं समासदत्।
अपि जीवति वैदेहीमिति पश्यामि लक्ष्मण ॥ 3-280-16(26670)
तस् तत्सर्वमाचख्यौ सीताया लक्ष्मणो वचः।
यदुक्तवत्यसदृशं वैदेही पश्चिमं वचः ॥ 3-280-17(26671)
दह्यमानेन तु हृदा रामोऽभ्यपतदाश्रमम्।
स ददर्श रतदा गृध्रं निहतं पर्वतोपमम् ॥ 3-280-18(26672)
राक्षसं शङ्कमानस्तं विकृष्य बलवद्धनुः।
अभ्यधावत काकुत्स्थस्ततस्तं सहलक्ष्मणः ॥ 3-280-19(26673)
स तावुवाच तेजस्वी सहितौ रामलक्ष्मणौ।
गृध्रराजेस्मि भद्रंवां सखा दशरथस् वै ॥ 3-280-20(26674)
तस्य तद्वचनं श्रुत्वा संगृह्य धनुषी शुभे।
कोयं पितरमस्माकं नाम्नाऽऽहेत्यूचतुश्च तौ ॥ 3-280-21(26675)
ततो ददृशतुस्तौ तं छिननपक्षद्वयं खगम्।
तयोः शशंस गृध्रस्तु सीतार्थे रावणाद्वधम् ॥ 3-280-22(26676)
अपृच्छद्राघवो गृध्रं रावणः कां दिशं गतः।
तस् गृध्रः शिरःकम्पैराचचक्षे ममार च ॥ 3-280-23(26677)
दक्षिणामिति काकुत्स्थो विदित्वाऽस्य तदिङ्गितम्।
संस्कारं लम्भयामास सखायं पूजयन्पितुः ॥ 3-280-24(26678)
ततो दृष्ट्वाऽऽश्रमपदं व्यपविद्धबृसीकटम्।
विध्वस्तकलशं शून्यं गोमायुशतसंकुलम् ॥ 3-280-25(26679)
दुःखशोकसमाविष्टौ वैदेहीहरणार्दितौ।
जग्मतुर्दण्डकारण्यं दक्षिणेन परंतपौ ॥ 3-280-26(26680)
वने महति तस्मिंस्तु रामः सौमित्रिणा सह।
ददर्श मृगयूथनि द्रवमाणानि सर्वशः ॥ 3-280-27(26681)
शब्दं च घोरं सत्वानां दावाग्नरिववर्धतः।
अपश्येतां मुहूर्ताच्च कबन्धं घोरदर्शनम् ॥ 3-280-28(26682)
मेघपर्वतसंकाशं सालस्कन्धं महाभूजम्।
उरोगतविशालाक्षं महोदरमहामुखम् ॥ 3-280-29(26683)
यदृच्छयाथ तद्रक्षः करे जग्राह लक्ष्मणम्।
विषादमगमत्सद्यः सौमित्रिरथ भारत ॥ 3-280-30(26684)
स राममभिसंप्रेक्ष्य कृष्यते येन तन्मुखम्।
विषण्णश्चाब्रवीद्रामं पश्यावस्थामिमां मम ॥ 3-280-31(26685)
हरणं चैववैदेह्या मम चायमुपप्लवः।
राज्यभ्रंशश्च भवतस्तातस्य मरणं तथा ॥ 3-280-32(26686)
नाहं त्वां मह वैदेह्या समेतं कोसलागतम्।
द्रक्ष्यामि प्रथिते राज्येपितृपैतामहे स्थितम् ॥ 3-280-33(26687)
द्रक्ष्यन्त्यार्यस्य धन्या ये कुशलाजशमीदलैः।
अभिषिक्तस् वदनं सोमं शान्तघनं यथा ॥ 3-280-34(26688)
एवं बहुविधं धीमान्विललाप स लक्ष्मणः।
तमुवाचाथकाकुत्स्थः संभ्रमेष्वप्यसंभ्रमः ॥ 3-280-35(26689)
मा विषीद नरव्याघ्र नैष कश्चिन्मयि स्थिते।
`शक्तो धर्षयितुं वीर सुमित्रानन्दवर्धन'।
छिन्ध्यस्य दक्षिणं बाहुं छिन्नः सव्यो मया भुजः ॥ 3-280-36(26690)
इत्येवं वदता तस् भुजो रामेण पातितः।
खङ्गेन भृशतीक्ष्णेन निकृत्तस्तिलकाण्डवत् ॥ 3-280-37(26691)
ततोऽस्य दक्षिणं बाहुं स्वङ्गेनाजघ्निवान्बली।
सौमित्रिरपि संप्रेक्ष्यभ्रातरं राघवं स्थितम् ॥ 3-280-38(26692)
पुनर्जघान पार्श्वे वै तद्रक्षो लक्ष्मणो भृशम्।
गतासुरपतद्भूमौ कबन्धः सुमहांस्ततः ॥ 3-280-39(26693)
तस्य देहाद्विनिःसृत्य पुरुषो दिव्यदर्शनः।
ददृशे दिवमास्थाय दिवि सूर्य इव ज्वलन् ॥ 3-280-40(26694)
पप्रच्छ रामस्तं वाग्मी कस्त्वं प्रब्रूहि पृच्छतः।
कामया किमिदं चित्रमाश्चर्यं प्रतिभाति मे ॥ 3-280-41(26695)
तस्याचचक्षेगन्धर्वोविश्वावसुरहं नृप।
प्राप्तो ब्राह्मणशपेन योनिं राक्षससेविताम् ॥ 3-280-42(26696)
रावणेन हृतासीता लङ्कायां संनिवेशिता।
सुग्रीवमभिगच्छस्वस ते साह्यं करिष्यति ॥ 3-280-43(26697)
एषा पम्पा शिवजला हंसकारण्डवायुता।
ऋश्यमूकस्य शैलस्य संनिकर्षे तटाकिनी ॥ 3-280-44(26698)
वसते तत्रसुग्रीवश्चतुर्भिः सचिवैः सह।
भ्राता बानरराजस् वालिनो हेममालिनः ॥ 3-280-45(26699)
तेन त्वं सहसंगम्य दुःखमूलं निवेदय।
समानशीलो भवतः साहाय्यं स करिष्यति ॥ 3-280-46(26700)
एतावच्छक्यमस्माभिर्वक्तुं द्रष्टासि जानकीम्।
ध्रुवं वानरराजस् विदितो रावणालयः ॥ 3-280-47(26701)
इत्युक्त्वाऽन्तर्हितो दिव्यः पुरुषः स महाप्रभः।
विस्मयं जग्मतुश्चोभौ प्रवीरौ रामलक्ष्मणौ ॥ 3-280-48(26702)

इति श्रीमन्महाभारते अरण्यपर्वणि रामोपाख्यानपर्वणि अशीत्यधिकद्विशततमोऽध्यायः ॥

Mahabharata - Vana Parva - Chapter Footnotes
3-280-3 ध्रियमाणे जीवति ॥ 3-280-4 नखरैः नखैः ॥ 3-280-5 चक्षार सुस्राव ॥ 3-280-7 अङ्केन उत्सङ्गेन ॥ 3-280-9 गिरिप्रस्थे पर्वतशिखरे ॥ 3-280-12 प्राकारः परिधिभित्तिः वप्रस्तद्बाह्यं वेणुमयं दुर्गं ताभ्यां संबाधा दुर्गमा ॥ 3-280-14 कथं प्राप्तोसीति संबन्धः ॥ 3-280-20 वां युवयोः ॥ 3-280-21 आहव्रृते ॥ 3-280-29 उरसि नेत्रे उदरे मुखं च यस्य। कबन्धः शोर्षहीनः पुमान् ॥ 3-280-31 येन यतस्तन्मुखं ततः कृष्यते ॥ 3-280-41 कामया इच्छया ॥ 3-280-44 पम्पा नामतः। तटाकिनी सरसी ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.